Friday, February 11, 2022

ओं जय जगदीश हरे

 ।।अथ श्रीशिवानन्दस्वामिना विरचिताया आरत्याः संस्कृतच्छाया।।


ओं जय जगदीश हरे 

प्रभो जय जगदीश हरे

भक्तजनानां दुःखं 

दासजनानां दुःखं 

शीघ्रं त्वं हरसे

ओं जय जगदीश हरे।।


ध्यायकैः फलमाप्यते

दुःखो विनश्यते मनसः

प्रभो दुःखो विनश्यते मनसः।

गृहे लभ्यन्ते धनानि

कष्टं गच्छति वपुषः।।

ओं जय जगदीश हरे।


मातापितरौ मम त्वं

शरणं कस्य हि गम्यम्।

प्रभो शरणं कस्य हि गम्यम्।

विना त्वां न अन्यो

विना प्रभुं न अन्य

आशां यस्य धरेयम्।


ओं जय जगदीश हरे।।


त्वं पूर्णः परमात्मा, त्वमन्तर्यामी

प्रभो त्वमन्तर्यामी।

परब्रह्मन् परमेश्वर, सर्वेषां स्वामी।

ओं जय जगदीश हरे।।


त्वं हि करुणासागरः त्वं पालनकर्ता

प्रभो त्वं पालनकर्ता।

खलो मूर्खोऽहं कामी, दासोऽहं त्वं स्वामी

कृपां कुरु भर्ता।

ओं जय जगदीश हरे।।


त्वमसि एकोऽगोचरः प्राणपतिस्सर्वेषां

प्रभो प्राणपतिस्सर्वेषां।

विधिना केन मिलेयं 

कुमतिरहं प्रभो त्वाम्।

ओं जय जगदीश हरे।।


दीनबन्धो दुःखहर्ता त्वं ठक्कुरो मदीयः

प्रभो त्वं रक्षको मदीयः।

हस्तौ उन्नय स्वस्य शरणं मम कुरुष्व।

द्वारे अस्मि त्वदीयः।

ओं जय जगदीश हरे।।


विषयविकारौ प्रजहि पापान्यपि हर

प्रभो कष्टं हर देव।

वर्धय श्रद्धाभक्ती वर्धय श्रद्धाप्रीती

साधुसेवां च।

ओं जय जगदीश हरे।।


तनमनधनानि मम वै प्रभो सर्वाणि तव हि

प्रभो सर्वाणि तव हि।

तव हि तर्पणं तुभ्यं मम न किञ्चिद्धि।

ओं जय जगदीश हरे।।


श्रीजगदीशस्यारतीं गायन्ति येऽपि

प्रभो गायन्ति येऽपि।

ब्रूते शिवानन्दस्वामी सुखं यान्ति ते हि।

ओं जय जगदीश हरे।।


ओं जय जगदीश हरे

प्रभो जय जगदीश हरे

भक्तजनानां दुःखं दासजनानां दुःखं

शीघ्रं त्वं हरसे

ओं जय जगदीश हरे।।









No comments: