अधरोष्ठाभ्यां स्पृष्ट्वा
कुरु मम गीतममरम्।
भव त्वं मम वै मित्रं
कुरु मम प्रणयममरम्
न वयसो हि सीमा
जन्मनो न बन्धनम्।
प्रेमी यदि सन् कश्चन
पश्येत् सदा हृदयं
नवरीतिमारभ्य
कुरु रीतीमाममरम्।
गगनस्य शून्यमिव
शून्यं वै मनो मम।
किङ्किणीं नादयित्वा
एहि जीवने मम।
श्वासं दत्त्वा स्वस्या
कुरु संगीतममरम्।

No comments:
Post a Comment