Friday, February 11, 2022

कुरु मम गीतममरम्

 अधरोष्ठाभ्यां स्पृष्ट्वा 

कुरु मम गीतममरम्।

भव त्वं मम वै मित्रं

कुरु मम प्रणयममरम्

न वयसो हि सीमा 

जन्मनो न बन्धनम्।

प्रेमी यदि सन् कश्चन

पश्येत् सदा हृदयं

नवरीतिमारभ्य 

कुरु रीतीमाममरम्।

गगनस्य शून्यमिव

शून्यं वै मनो मम।

किङ्किणीं नादयित्वा

एहि जीवने मम।

श्वासं दत्त्वा स्वस्या

कुरु संगीतममरम्।

No comments: